Pages

Sunday, December 27, 2015

अथ प्रश्नोपनिषद


ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पष्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्तुवाम सस्तनूभिर्व्यशेम देवहितं यदायुः

स्वस्ति न इन्द्रो वृद्धश्रवाः
      स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
      स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी
च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी
कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं
ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह
समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १॥


तन् ह स ऋषिरुवच भूय एव तपसा ब्रह्मचर्येण श्रद्धया
संवत्सरं संवत्स्यथ
यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो
वक्ष्याम इति ॥ २॥

अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।
भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त  इति ॥ ३॥


तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत
स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्रणं
चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४॥


आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्
सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५॥


अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्
प्राणान् रश्मिषु सन्निधत्ते । यद्दक्षिणां यत् प्रतीचीं
यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति
तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ६॥


स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते ।
तदेतदृचाऽभ्युक्तम् ॥ ७॥


विश्वरूपं हरिणं जातवेदसं
परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः
प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८॥


संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव
लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः
प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः
पितृयाणः ॥ ९॥

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया
विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते ।   एतद्वै
प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न
पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १०॥

  
पञ्चपादं पितरं द्वादशाकृतिं
दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं
सप्तचक्रे षडर आहुरर्पितमिति ॥ ११॥


मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः
शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर
इतरस्मिन् ॥ १२॥
  

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः
प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते
ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३॥


अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः
प्रजायन्त इति ॥ १४॥


तद्ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं
प्रतिष्टितम् ॥ १५॥

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न
माया चेति ॥ १६॥


इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥



अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव
देवाः प्रचां दिधारयन्ते कतर एतत् प्रकशयन्ते कः
पुनरेषां वरिष्ठ इति ॥ १ ॥


तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः
पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति
वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥


तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ अहमेवैतत्
पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य
विधारयामीति
तेऽश्रद्दधाना बभूवुः ॥ ३ ॥


सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व
एवोत्क्रामन्ते तस्मि/श्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते
तस्मि/ष्च प्रत्ष्ठमाने सर्व एव प्रतिष्टन्त एवम्
वाङ्मनष्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥


एषोऽग्निस्तपत्येष सूर्य
एष पर्जन्यो मघवानेष वायुः
एष पृथिवी रयिर्देवः
सदसच्चामृतं च यत् ॥ ५ ॥


अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूꣳषि सामानि यज्ञः क्षत्रं ब्रह्म


प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति
यः प्रणैः प्रतितिष्ठसि ॥ ७ ॥


देवानामसि वह्नितमः पितृणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥


इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥


यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥


व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥


या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥ १२ ॥


प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।
मातेव पुत्रान् रक्षस्व  श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥

इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥

  

अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ । भगवन् कुत
एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं  वा
प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते
कथमध्यात्ममिति ॥ १॥


तस्मै स होउवाचातिप्रष्चान् पृच्छसि ब्रह्मिष्ठोऽसीति
तस्मात्तेऽहं ब्रवीमि ॥२॥


आत्मन एष प्राणो जायते । यथैषा पुरुषे
छायैतस्मिन्नेतदाततं
मनोकृतेनायात्यस्मिञ्शरीरे ॥३॥


यथा सम्रादेवाधिकृतान् विनियुङ्क्ते । एतन् ग्रामानोतान्
ग्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्
पृथगेव सन्निधत्ते


पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः
स्वयं प्रातिष्टते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं
नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५॥


हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनं तासां शतं
शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः
प्रतिशाखानाडीसहस्राणि
भवन्त्यासु व्यानश्चरति ॥ ६॥


अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन
पापमुभाभ्यामेव मनुष्यलोकम् ॥ ७॥


आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं
प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्य
अपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८॥


तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥ ९॥


यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना
तथासङ्कल्पितं लोकं नयति ॥ १०॥


य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो
भवति तदेषः श्लोकः ॥ ११॥


उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते
विज्ञायामृतमश्नुत इति ॥ १२॥


इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥


  
अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन्
पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः
स्वप्नान् पश्यति कस्यैतत्  सुखं भवति कस्मिन्नु सर्वे
सम्प्रतिष्टिता भवन्तीति ॥ १॥


तस्मै स होवच । यथ गार्ग्य मरीचयोऽर्कस्यास्तं
गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः
पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे
मनस्येकीभवति
तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न
जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते
न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २॥


प्राणाग्रय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह
वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते
प्रणयनादाहवनीयः प्राणः ॥ ३॥


यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स  समानः ।
मनो ह वाव यजमानः । इष्टफलमेवोदानः । स
एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४॥


अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं
दृष्टमनुपश्यति
श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च
प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं
चाश्रुतं चानुभूतं चाननुभूतं च स्च्चासच्च सर्वं पश्यति सर्वः
पस्यति ॥ ५॥


स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न
पश्यत्यथ यदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ६॥


स यथा सोभ्य वयांसि वसोवृक्षं सम्प्रतिष्ठन्ते । एवं
ह वै तत् सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ७॥

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च
तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा
च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ग्राणं च
घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च
वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं
च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च
मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च
चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च
विद्यारयितव्यं च ॥ ८॥


एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता
बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि
सम्प्रतिष्ठते ॥ ९॥


परमेवाक्षरं प्रतिपद्यते स यो ह वै
तदच्छायमशरीरम्लोहितं
शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति ।
तदेष श्लोकः ॥ १०॥


विज्ञानात्मा सह देवैश्च सर्वैः
प्राणा भुतानि सम्प्रतिष्ठन्ति यत्र
तदक्षरं वेदयते यस्तु सोम्य
स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११॥


इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥


  
अथ हैनं सैब्यः सत्यकामः पप्रच्छ । स यो ह
वै तभ्दगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत ।
कतमं वाव स तेन लोकं जयतीति । तस्मै स होवाच ॥ १॥


एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ २॥


स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव
जगत्याभिसम्पध्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र
तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ३॥

अथ यदि द्विमात्रेण मनसि सम्पध्यते सोऽन्तरिक्षं
यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूय
पुनरावर्तते ॥ ४॥


यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि-
ध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा
विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स
सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं
पुरुशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ ५॥


तिस्रो मात्रा मृअत्युमत्यः प्रयुक्ता
अन्योन्यसक्ताः अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु
सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ६॥


ऋग्भिरेतं यजुर्भिरन्तरिक्षं
सामभिर्यत् तत् कवयो वेदयन्ते ।
तमोङ्कारेणैवायतनेनान्वेति विद्वान्
यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७॥


इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥




अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्
हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं
भारद्वाज पुरुषं वेत्थ । तमहं कुमारम्ब्रुवं नाहमिमं
वेद ।
यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा
एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् ।
स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ
पुरुष इति ॥ १॥


तस्मै स होवाच । इहईवान्तःशरीरे सोभ्य स पुरुषो
यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ २॥


स ईक्षाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन्वा प्रतिष्टिते प्रतिष्टस्यामीति ॥ ३॥


स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः
पृथिवीन्द्रियं मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म
लोका
लोकेषु च नाम च ॥ ४॥


स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं
प्राप्यास्तं गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते ।
एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः
पुरुषं प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं
प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५॥


अरा इव रथनाभौ कला यस्मिन्प्रतिष्टिताः ।
तं वेध्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६॥


तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद । नातः
परमस्तीति ॥ ७॥


ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः
परं परं तारयसीति । नमः परमऋषिभ्यो नमः
परमऋषिभ्यः ॥ ८॥


इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पष्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्तुवाम सस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥