Pages

Friday, December 18, 2015

ॐ ईशावास्योपनिषद्

ॐ ईशावास्योपनिषद्

ॐ ईशावास्यमिदं  सर्वं यत्किञ्च जगत्यां जगत्  ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्  ॥ १॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ  समाः  ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे  ॥ २॥
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः  ।
ताँ स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः  ॥ ३॥
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्  ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति  ॥ ४॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके  ।
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः  ॥ ५॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति  ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः  ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः  ॥ ७॥
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते  ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः  ॥ ९॥
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया  ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे  ॥ १०॥
विद्यां चाविद्यां च यस्तद्वेदोभयँ  सह  ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते  ॥ ११॥
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते  ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः  ॥ १२॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्  ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे  ॥ १३॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ  सह  ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते  ॥ १४॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्  ।
तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह ।
तेजो यत् ते रूपंकल्याणतमं तत् ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
वायुरनिलममृतमथेदं भस्मान्तँ शरीरम्  ।
ॐ क्रतो स्मर कृतँ स्मर ॐ क्रतो स्मर कृतँ  स्मर ॥ १७ ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्  ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम‍उक्तिं विधेम  ॥ १८ ॥

 पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते
पूर्णश्य पूर्णमादाय पूर्णमेवावशिष्यते 
 शान्तिः शान्तिः शान्तिः 







No comments:

Post a Comment